Tuesday, July 31, 2007

campus samskritam........

for some added publicity for

http://www.speaksanskrit.org/campus

http://vishvavani.blogspot.com

-------------------------------------

the patrikaa had one li'l contribution from yoz truly as well ... c&p here

विनोदिका

अस्ति एका "अद्वैतवादिनी" लता नाम । एकदा सा चिन्तितवती, मया अद्वैतसिद्धान्तस्य प्रचारः करणीयः इति । तस्याः गृहस्य भित्त्यां सा लिखितवती - "सोऽहम्" । परन्तु तस्याः सहोदरी, सीता, द्वैतवादिनी आसीत् । भित्त्यां लिखितं सन्देशं दृष्ट्वा सा चिन्तितवती, मया अपि द्वैतसिद्धान्तस्य प्रचारः करणीयः इति । सा तत्र गत्वा "दा" इति अक्षरं योजितवती । अतः तत् वचनं "दासोऽहम्" इति अभवत् ।

अग्रिमदिने लता स्वलिखितं सन्देशं द्रष्टुम् आगतवती । परन्तु पदस्य परिवर्तनं दृष्ट्वा सा विस्मिता अभवत् । "एतत् तु मम सहोदर्या लिखितं निश्चयेन । मया किमपि करणीयम्" । सा पदात् पूर्वम् अन्यम् एकं "स" अक्षरम् योजितवती । "सदासोऽहम्" इति । तद्दिने सायङ्काले, सीता पुनः पदस्य परिवर्तनं कृतवती - "दासदासोऽहम्" । एवमेव प्रतिदिनं, पदस्य परिवर्तनं जातम् । अन्ते किम् अभवत् इति भवन्तः एव पूरयन्तु :)

3 comments:

Anonymous said...

I am unable to vote

ജ്യോതിര്‍മയി /ज्योतिर्मयी said...

सोस्म्यहम्

दासो//हम् दासीचाहम्

सादरम्
ज्योतिर्मयी।

m r rao said...

द्वैताद्वैदवादः बहुशताब्दिभिः चलति। एकदा कयोश्चित्‌ द्वैत्यद्वैतिनोः वादः उदपद्यत। यथापूर्वं दीर्घकालं वादः प्रावर्तत। अन्ततः स अद्वैती वदति न जाने तत्त्वमसि वा न वा किंतु अहं ब्रह्माऽस्मि इति!

अद्वैतपरिहासाय रचितेन एतेन श्लोकेन आधुनिके को वा न मोदेत?

अविदितसुखदुःखं निर्गुणं वस्तु किञ्चित्‌
जडमतिरिह कश्चिन्मोक्ष इत्याचचक्षे।
मम तु मतमनङ्गस्मेरतारुण्यघूर्ण
प्रमुदितवनितानां नीविमोक्षो हि मोक्षः॥